HomeUpanishadsGanapatiVerse 6
Previous Verse
Next Verse

Verse 6

Ganapati

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि । त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥६॥

सर्वम् । जगत् । इदम् । त्वत्तः । जायते । सर्वम् । जगत् । इदम् । त्वत्तः । तिष्ठति । सर्वम् । जगत् । इदम् । त्वयि । लयम् । एष्यति । सर्वम् । जगत् । इदम् । त्वयि । प्रत्येति । त्वम् । भूमिः । आपः । अनलः । अनिलः । नभः । त्वम् । चत्वारि । वाक्-पदानि । त्वम् । गुण-त्रय-अतीतः । त्वम् । अवस्था-त्रय-अतीतः । त्वम् । देह-त्रय-अतीतः । त्वम् । काल-त्रय-अतीतः । त्वम् । मूलाधार-स्थितः । असि । नित्यम् । त्वम् । शक्ति-त्रय-आत्मकः । त्वाम् । योगिनः । ध्यायन्ति । नित्यम् । त्वम् । ब्रह्मा । त्वम् । विष्णुः । त्वम् । रुद्रः । त्वम् । इन्द्रः । त्वम् । अग्निः । त्वम् । वायुः । त्वम् । सूर्यः । त्वम् । चन्द्रमाः । त्वम् । ब्रह्म । भूः-भुवः-स्वः । ओम् ।

sarvaṃ jagad idaṃ tvatto jāyate | sarvaṃ jagad idaṃ tvattas tiṣṭhati | sarvaṃ jagad idaṃ tvayi layam eṣyati | sarvaṃ jagad idaṃ tvayi pratyeti | tvaṃ bhūmir āpo'nalo'nilo nabhaḥ | tvaṃ catvāri vākpadāni | tvaṃ guṇatrayātītaḥ | tvaṃ avasthātrayātītaḥ | tvaṃ dehatrayātītaḥ | tvaṃ kālatrayātītaḥ | tvaṃ mūlādhārasthito'si nityam | tvaṃ śaktitrayātmakaḥ | tvāṃ yogino dhyāyanti nityam | tvaṃ brahmā tvaṃ viṣṇus tvaṃ rudras tvam indras tvam agnis tvaṃ vāyus tvaṃ sūryas tvaṃ candramās tvaṃ brahma bhūr bhuvaḥ svar om ||6||

ਇਹ ਸਾਰਾ ਜਗਤ ਤੇਰੇ ਤੋਂ ਹੀ ਜਨਮ ਲੈਂਦਾ ਹੈ। ਇਹ ਸਾਰਾ ਜਗਤ ਤੇਰੇ ਨਾਲ ਹੀ ਟਿਕਿਆ ਰਹਿੰਦਾ ਹੈ। ਇਹ ਸਾਰਾ ਜਗਤ ਤੇਰੇ ਵਿੱਚ ਹੀ ਲਯ ਹੋਵੇਗਾ। ਇਹ ਸਾਰਾ ਜਗਤ ਤੇਰੇ ਵੱਲ ਹੀ ਪਰਤਦਾ ਹੈ। ਤੂੰ ਧਰਤੀ, ਜਲ, ਅਗਨਿ, ਵਾਯੁ ਅਤੇ ਆਕਾਸ਼ ਹੈਂ। ਤੂੰ ਵਾਣੀ ਦੇ ਚਾਰ ਪਦ (ਪਰਾ, ਪਸ਼੍ਯੰਤੀ, ਮਧ੍ਯਮਾ, ਵੈਖਰੀ) ਹੈਂ। ਤੂੰ ਗੁਣਤ੍ਰਯਾਤੀਤ ਹੈਂ। ਤੂੰ ਅਵਸਥਾਤ੍ਰਯਾਤੀਤ ਹੈਂ। ਤੂੰ ਦੇਹਤ੍ਰਯਾਤੀਤ ਹੈਂ। ਤੂੰ ਕਾਲਤ੍ਰਯਾਤੀਤ ਹੈਂ। ਤੂੰ ਨਿਤ੍ਯ ਮੂਲਾਧਾਰ ਵਿੱਚ ਸਥਿਤ ਹੈਂ। ਤੂੰ ਸ਼ਕ੍ਤਿਤ੍ਰਯਾਤਮਕ ਹੈਂ। ਯੋਗੀ ਨਿਤ੍ਯ ਤੇਰਾ ਧਿਆਨ ਕਰਦੇ ਹਨ। ਤੂੰ ਬ੍ਰਹਮਾ ਹੈਂ; ਤੂੰ ਵਿਸ਼੍ਣੁ ਹੈਂ; ਤੂੰ ਰੁਦ੍ਰ ਹੈਂ; ਤੂੰ ਇੰਦਰ ਹੈਂ; ਤੂੰ ਅਗਨਿ ਹੈਂ; ਤੂੰ ਵਾਯੁ ਹੈਂ; ਤੂੰ ਸੂਰਜ ਹੈਂ; ਤੂੰ ਚੰਦਰਮਾ ਹੈਂ; ਤੂੰ ਬ੍ਰਹ੍ਮ ਹੈਂ—ਭੂਃ, ਭੁਵਃ, ਸ੍ਵਃ—ਓਂ।

All this world is born from you. All this world stands by you. All this world will enter dissolution in you. All this world returns to you. You are earth, waters, fire, wind, and space. You are the four quarters/levels of speech. You transcend the three guṇas. You transcend the three states (waking, dream, deep sleep). You transcend the three bodies. You transcend the three times. You are ever established in the mūlādhāra. You are of the nature of the three powers (śaktis). The yogins meditate on you constantly. You are Brahmā; you are Viṣṇu; you are Rudra; you are Indra; you are Agni; you are Vāyu; you are Sūrya; you are Candra; you are Brahman—Bhūḥ, Bhuvaḥ, Svaḥ—Om.

Brahman/Īśvara as jagat-kāraṇa (cause of the universe), pañcabhūta-adhisthāna, turīya (beyond three states), and sarva-devatā-ātmabhāva (all-deities-as-one)Mahavakya: Supports Mahāvākya purport by asserting non-dual all-inclusiveness of Brahman (akin to ‘सर्वं खल्विदं ब्रह्म’); also resonates with ‘अयमात्मा ब्रह्म’ through the ‘beyond three states/bodies’ (turīya) framing.AtharvaAtharvaveda (Ganapatyatharvaśīrṣa / Ganapati Upaniṣad; śākhā not firmly specified in the text-tradition) ShakhaChandas: Prose (gadyam)