Amritnada
यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि । यत्र तत्र म्रियेद्वापि न स भूयोऽभिजायते । न स भूयोऽभिजायत इत्युपनिषत् ॥३९॥
यस्य । इदम् । मण्डलम् । भित्वा । मारुतः । याति । मूर्धनि । यत्र । तत्र । म्रियेत् । वा । अपि । न । सः । भूयः । अभिजायते । न । सः । भूयः । अभिजायत इति । उपनिषत् ॥
yasyedaṃ maṇḍalaṃ bhitvā māruto yāti mūrdhani | yatra tatra mriyed vāpi na sa bhūyo 'bhijāyate | na sa bhūyo 'bhijāyata ity upaniṣat ||39||
ਜਿਸ ਲਈ ਇਹ ਮਾਰੁਤ (ਪ੍ਰਾਣ-ਵਾਯੂ) ਇਸ ਮੰਡਲ ਨੂੰ ਭੇਦ ਕੇ ਸਿਰ ਦੇ ਸ਼ਿਖਰ ਤੱਕ ਪਹੁੰਚਦਾ ਹੈ—ਉਹ ਜਿੱਥੇ ਵੀ ਮਰੇ, ਮੁੜ ਜਨਮ ਨਹੀਂ ਲੈਂਦਾ। ‘ਮੁੜ ਜਨਮ ਨਹੀਂ ਲੈਂਦਾ’—ਇਹੀ ਉਪਨਿਸ਼ਦ ਹੈ॥੩੯॥
For whom the wind (vital breath), having pierced this ‘circle/disc’ (maṇḍala), goes to the crown of the head—wherever he may die, he is not born again. ‘He is not born again’—thus (ends) the Upaniṣad.