Sukta 10.108
किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः । कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥
किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः । कास्मेहि॑ति॒: का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतर॒: पयां॑सि ॥
kím icchántī sarámā prá idám ānaḍ dūré hí ádhvā jáguriḥ parācáiḥ | kā́ asméhítiḥ kā́ paritakmyā́ āsīt katháṃ rasā́yā ataraḥ páyāṃsi ||
ਹੇ ਸਰਮਾ, ਤੂੰ ਇੱਥੇ ਰੋਦੀ-ਰੋਦੀ ਕੀ ਲੱਭਣ ਆਈ ਹੈਂ? ਰਾਹ ਸੱਚਮੁੱਚ ਦੂਰ ਹੈ; ਪਾਰੋਂ ਆਉਣਾ ਔਖਾ ਹੈ। ਸਾਡੇ ਲਈ ਤੇਰਾ ਮਨੋਰਥ ਕੀ ਸੀ, ਤੇਰੀ ਘੇਰ-ਘੇਰ ਕੇ ਖੋਜ ਕੀ ਸੀ? ਰਸਾ ਦੇ ਪਾਣੀਆਂ ਨੂੰ ਤੂੰ ਕਿਵੇਂ ਪਾਰ ਕੀਤਾ?
किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः । का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः । का । अस्मेहितिः । का । परितक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि ॥kim | icchantī | saramā | pra | idam | ānaṭ | dūre | hi | adhvā | jaguriḥ | parācaiḥ | kā | asme--hitiḥ | kā | pari-takmyā | āsīt | katham | rasāyāḥ | ataraḥ | payāṃsi