Sukta 1.164
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् । वि यस्तस्तम्भ षळिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥
अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् । वि यस्त॒स्तम्भ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म् ॥
ácikitvāñ cikituṣáś cid átra kavī́n pṛcchāmi vidmáne ná vidvā́n | ví yás tastámbha ṣáḷ imā́ rájāṃsy ajásya rūpé kím ápi svíd ékam ||
ਨਾ ਸਮਝਣ ਵਾਲਾ ਮੈਂ ਇੱਥੇ ਸਮਝਣ ਵਾਲੇ ਕਵੀਆਂ ਨੂੰ ਵੀ ਪੁੱਛਦਾ ਹਾਂ—ਤਾਂ ਜੋ ਮੈਂ ਜਾਣਨ ਵਿੱਚ ਪ੍ਰਵੇਸ਼ ਕਰਾਂ, ਭਾਵੇਂ ਮੈਂ ਹਾਲੇ ਵਿਦਵਾਨ ਨਹੀਂ। ਜਿਸ ਨੇ ਇਹ ਛੇ ਖੇਤਰ ਵੱਖ ਕਰ ਕੇ ਟਿਕਾ ਦਿੱਤੇ—ਅਜ (ਅਜਨਮਾ) ਦੇ ਰੂਪ ਵਿੱਚ ਉਹ ਇਕੋ ਇਕ ਕੀ ਹੈ, ਸ਼ਾਇਦ?
अचि॑कित्वान् । चि॒कि॒तुषः॑ । चि॒त् । अत्र॑ । क॒वीन् । पृ॒च्छा॒मि॒ । वि॒द्मने॑ । न । वि॒द्वान् । वि । यः । त॒स्तम्भ॑ । षट् । इ॒मा । रजां॑सि । अ॒जस्य॑ । रू॒पे । किम् । अपि॑ । स्वि॒त् । एक॑म् ॥अचिकित्वान् । चिकितुषः । चित् । अत्र । कवीन् । पृच्छामि । विद्मने । न । विद्वान् । वि । यः । तस्तम्भ । षट् । इमा । रजांसि । अजस्य । रूपे । किम् । अपि । स्वित् । एकम् ॥acikitvān | cikituṣaḥ | cit | atra | kavīn | pṛcchāmi | vidmane | na | vidvān | vi | yaḥ | tastambha | ṣaṭ | imā | rajāṃsi | ajasya | rūpe | kim | api | svit | ekam