Sukta 1.129
पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् । हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः । अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥
पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् । ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः । अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥
pā́hi na indra suṣṭuta srídho’vayātā́ sádám id durmatī́nāṁ deváḥ sán durmatī́nām | hantā pā́pasya rakṣásaḥ trā́tā víprasya mā́vataḥ | ádhā hí tvā janitā́ jī́janad vaso rakṣoháṇaṁ tvā jī́janad vaso ||
ਹੇ ਸੁਸ਼ਟੁਤ ਇੰਦਰ, ਸਾਡੀ ਰੱਖਿਆ ਕਰ; ਟੇਢੀਆਂ ਰੋਕਾਂ ਉੱਤੇ ਉਤਰ ਕੇ ਉਨ੍ਹਾਂ ਨੂੰ ਦਬਾ ਦੇ। ਦੇਵ ਹੋ ਕੇ ਤੂੰ ਸਦਾ ਦੁੁਰਮਤੀ ਵਾਲਿਆਂ ਦਾ ਸੰਹਾਰਕ ਹੈਂ। ਪਾਪਮਈ ਅੰਧਕਾਰ-ਰੂਪ ਰਕ੍ਸ਼ਸ ਦਾ ਹੰਤਾ, ਵਾਣੀ-ਧਨ ਵਾਲੇ ਵਿਪ੍ਰ ਦਾ ਤ੍ਰਾਤਾ। ਕਿਉਂਕਿ, ਹੇ ਵਸੁ, ਤੇਰੇ ਜਨਿਤਾ ਨੇ ਤੈਨੂੰ ਰਕ੍ਸ਼ੋਹਣ ਵਜੋਂ ਹੀ ਜਨਮ ਦਿੱਤਾ—ਹੇ ਵਸੁ, ਤੈਨੂੰ ਰਕ੍ਸ਼ੋਹਣ ਵਜੋਂ ਹੀ ਜਨਮ ਦਿੱਤਾ।
पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॒म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् । ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माव॑तः । अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥पाहि । नः । इन्द्र । सुस्तुत । स्रिधः । अवयाता । सदम् । इत् । दुःमतीनाम् । देवः । सन् । दुःमतीनाम् । हन्ता । पापस्य । रक्षसः । त्राता । विप्रस्य । मावतः । अध । हि । त्वा । जनिता । जीजनत् । वसो इति । रक्षःहनम् । त्वा । जीजनत् । वसो इति ॥pāhi | naḥ | indra | su-stuta | sridhaḥ | ava-yātā | sadam | it | duḥ-matīnām | devaḥ | san | duḥ-matīnām | hantā | pāpasya | rakṣasaḥ | trātā | viprasya | māvataḥ | adha | hi | tvā | janitā | jījanat | vaso iti | rakṣaḥ-hanam | tvā | jījanat | vaso iti