Sukta 1.117
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् । सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥
पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रम् ॥
purū́ varpā́ṃsy aśvinā dádhānā ní pédava ūhathur āśúm aśvám | sahasrasā́ṃ vājínam ápratītam ahihánaṃ śravasyáṃ tarútram ||
ਹੇ ਅਸ਼ਵਿਨੋ, ਬਹੁਤੇ ਰੂਪ ਧਾਰ ਕੇ, ਤੁਸੀਂ ਪੇਦੂ ਲਈ ਇੱਕ ਤੇਜ਼ ਘੋੜਾ ਲਿਆਏ—ਸਹਸ੍ਰਸਾਂ (ਹਜ਼ਾਰ ਜਿੱਤਾਂ ਵਾਲਾ), ਹਮਲੇ ਵਿੱਚ ਅਪ੍ਰਤੀਤ, ਅਹਿਹਨ (ਸਰਪ-ਸ਼ਕਤੀ ਦਾ ਸੰਹਾਰਕ), ਸ਼੍ਰਵਸ (ਯਸ਼) ਨਾਲ ਭਰਪੂਰ, ਦ੍ਰਿੜ੍ਹ ਤਰੁਤ੍ਰ (ਉੱਧਾਰਕ)।
पु॒रु । वर्पां॑सि । अ॒श्वि॒ना॒ । दधा॑ना । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् । स॒ह॒स्र॒ऽसाम् । वा॒जिन॑म् । अप्र॑तिऽइतम् । अ॒हि॒ऽहन॑म् । श्र॒व॒स्य॑म् । तरु॑त्रम् ॥पुरु । वर्पांसि । अश्विना । दधाना । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् । सहस्रसाम् । वाजिनम् । अप्रतिइतम् । अहिहनम् । श्रवस्यम् । तरुत्रम् ॥puru | varpāṃsi | aśvinā | dadhānā | ni | pedave | ūhathuḥ | āśum | aśvam | sahasra-sām | vājinam | aprati-itam | ahi-hanam | śravasyam | tarutram