Yogatattva
कामक्रोधभयं चापि मोहलोभमदो रजः । जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥
तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च ।
एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥१२-१३॥
काम । क्रोध । भयम् । च । अपि । मोह । लोभ । मदः । रजः । जन्म । मृत्युः । च । कार्पण्यम् । शोकः । तन्द्रा । क्षुधा । तृषा ॥
तृष्णा । लज्जा । भयम् । दुःखम् । विषादः । हर्षः । एव । च ॥
एभिः । दोषैः । विनिर्मुक्तः । सः । जीवः । केवलः । मतः ॥
kāmakrodhabhayaṃ cāpi mohalobhamado rajaḥ | janmamṛtyuś ca kārpaṇyaṃ śokas tandrā kṣudhā tṛṣā ||
tṛṣṇā lajjā bhayaṃ duḥkhaṃ viṣādo harṣa eva ca |
ebhir doṣair vinirmuktaḥ sa jīvaḥ kevalo mataḥ ||12–13||
କାମ, କ୍ରୋଧ ଓ ଭୟ; ମୋହ, ଲୋଭ, ମଦ ଓ ରଜଃ; ଜନ୍ମ-ମୃତ୍ୟୁ ଓ କାର୍ପଣ୍ୟ; ଶୋକ, ତନ୍ଦ୍ରା, କ୍ଷୁଧା, ତୃଷା; ତୃଷ୍ଣା, ଲଜ୍ଜା, ଭୟ, ଦୁଃଖ, ବିଷାଦ ଓ ହର୍ଷ—ଏହି ଦୋଷମାନଙ୍କୁ ଛାଡ଼ି ଯିଏ ସମ୍ପୂର୍ଣ୍ଣ ମୁକ୍ତ, ସେଇ ଜୀବ ‘କେବଳ’ (ଶୁଦ୍ଧ/ଏକାକୀ) ବୋଲି ମତ।
Desire, anger, and also fear; delusion, greed, intoxication, passion (rajas); birth and death; wretchedness; grief, drowsiness, hunger, thirst; craving, shame, fear, suffering, dejection, and joy as well—freed from these faults, that jīva is considered ‘alone/pure’ (kevala).