Yagyavalkya
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।
चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥३२॥
चित् । इह । अस्ति । इति । चित्-मात्रम् । इदम् । चित्-मयम् । एव । च ।
चित् । त्वम् । चित् । अहम् । एते । च । लोकाः । चित् । इति । भावय ॥३२॥
cid ihāstīti cinmātram idaṃ cinmayam eva ca | cittvaṃ cid aham ete ca lokāś cid iti bhāvaya ||32||
ଏଭଳି ଭାବନା କର: ‘ଏଠି ଚେତନା ଅଛି’; ଏହି ସବୁ ଚେତନାମାତ୍ର, ଚେତନାମୟ ହିଁ। ତୁମେ ଚେତନା; ମୁଁ ଚେତନା; ଏହି ଲୋକମାନେ ମଧ୍ୟ ଚେତନା—ଏମିତି ଧ୍ୟାନ କର।
Meditate thus: ‘Consciousness exists here’; this (all) is only consciousness, indeed made of consciousness. You are consciousness; I am consciousness; these worlds too are consciousness.