Vajrasuchika
तर्हि को वा ब्राह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पाधारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्यहिश्चाकाशवदनुस्यूतमखण्डानन्दस्वभावमप्रमेयं अनुभवैकवेद्यमपरोक्षतया भासमानं करतळामलकवत्साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसम्पन्नो भावमात्सर्यतृष्णाशामोहादिरहितो दम्भाहङ्कारादिभिरसंस्पृष्टचेता वर्तते—एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृतिहासपुराणाभ्यामभिप्रायः । अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव । सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदित्युपनिषत् ॥९॥
तर्हि । कः । वा । ब्राह्मणः । नाम । यः । कश्चित् । आत्मानम् । अद्वितीयम् । जाति-गुण-क्रिया-हीनम् । षट्-ऊर्मि-षट्-भाव-इति-आदि । सर्व-दोष-रहितम् । सत्य-ज्ञान-आनन्द-अनन्त-स्वरूपम् । स्वयम् । निर्विकल्पम् । अशेष-कल्प-आधारम् । अशेष-भूत-अन्तर्यामित्वेन । वर्तमानम् । अन्तर्यहि(ः) । च । आकाश-वत् । अनुस्यूतम् । अखण्ड-आनन्द-स्वभावम् । अप्रमेयम् । अनुभव-एक-वेद्यम् । अपरोक्षतया । भासमानम् । करतल-आमलक-वत् । साक्षात् । अपरोक्षीकृत्य । कृतार्थतया । काम-राग-आदि-दोष-रहितः । शम-दम-आदि-सम्पन्नः । भाव-मत्सर्य-तृष्णा-आशा-मोह-आदि-रहितः । दम्भ-अहङ्कार-आदि-भिः । असंस्पृष्ट-चेताः । वर्तते । एवम्-उक्त-लक्षणः । यः । सः । एव । ब्राह्मणः । इति । श्रुति-स्मृति-इतिहास-पुराणाभ्याम् । अभिप्रायः । अन्यथा । हि । ब्राह्मणत्व-सिद्धिः । न । अस्ति । एव । सच्चिदानन्दम् । आत्मानम् । अद्वितीयम् । ब्रह्म । भावयेत् । इति । उपनिषत् ॥९॥
tarhi ko vā brāhmaṇo nāma | yaḥ kaścid ātmānam advitīyaṃ jāti-guṇa-kriyā-hīnaṃ ṣaḍ-ūrmi-ṣaḍ-bhāva-ity-ādi sarva-doṣa-rahitaṃ satya-jñāna-ānanda-ananta-svarūpaṃ svayaṃ nirvikalpam aśeṣa-kalpādhāram aśeṣa-bhūtāntaryāmitvena vartamānam antaryahiś cākāśavad anusyūtam akhaṇḍānanda-svabhāvam aprameyam anubhavaika-vedyam aparokṣatayā bhāsamānaṃ karatala-āmalaka-vat sākṣād aparokṣīkṛtya kṛtārthatayā kāma-rāgādi-doṣa-rahitaḥ śama-damādi-sampanno bhāva-mātsarya-tṛṣṇā-āśā-mohādi-rahito dambhāhaṅkārādibhir asaṃspṛṣṭa-cetā vartate—evam-ukta-lakṣaṇo yaḥ sa eva brāhmaṇa iti śruti-smṛti-itihāsa-purāṇābhyām abhiprāyaḥ | anyathā hi brāhmaṇatva-siddhir nāsty eva | sac-cid-ānandam ātmānam advitīyaṃ brahma bhāvayed ity upaniṣat ||9||
ତେବେ ପ୍ରକୃତରେ ‘ବ୍ରାହ୍ମଣ’ କାହାକୁ କୁହାଯାଏ? ଯେ କେହି ଆତ୍ମାକୁ—ଅଦ୍ୱିତୀୟ; ଜାତି-ଗୁଣ-କ୍ରିୟାରହିତ; ଷଡୂର୍ମି ଓ ଷଡ୍ଭାବ ଆଦି ସମସ୍ତ ଦୋଷରୁ ମୁକ୍ତ; ସତ୍ୟ-ଜ୍ଞାନ-ଆନନ୍ଦ-ଅନନ୍ତ ସ୍ୱରୂପ; ସ୍ୱୟଂ ନିର୍ବିକଳ୍ପ; ସମସ୍ତ କଳ୍ପନାର ଆଧାର; ସମସ୍ତ ଭୂତରେ ଅନ୍ତର୍ୟାମୀ ଭାବେ ବର୍ତ୍ତମାନ; ଆକାଶ ପରି ଭିତରେ-ବାହାରେ ବ୍ୟାପ୍ତ; ଅଖଣ୍ଡ ଆନନ୍ଦ ସ୍ୱଭାବ; ଅପ୍ରମେୟ; ଅନୁଭବ ଦ୍ୱାରା ମାତ୍ର ଜ୍ଞେୟ; ଅପରୋକ୍ଷ ଭାବେ ପ୍ରକାଶମାନ—ହସ୍ତତଳରେ ଆମଳକ ଫଳ ପରି ସାକ୍ଷାତ୍ ଅପରୋକ୍ଷୀକୃତ କରି—କୃତାର୍ଥ ହୋଇ, କାମ-ରାଗାଦି ଦୋଷରହିତ; ଶମ-ଦମାଦି ସମ୍ପନ୍ନ; ଭାବ, ମାତ୍ସର୍ୟ, ତୃଷ୍ଣା, ଆଶା, ମୋହ ଆଦିରୁ ମୁକ୍ତ; ଦମ୍ଭ-ଅହଂକାର ଆଦିରେ ଅସ୍ପୃଷ୍ଟ ଚିତ୍ତ ଧାରଣ କରି ବର୍ତ୍ତେ—ଏପରି ଲକ୍ଷଣଯୁକ୍ତ ଯେ, ସେଇ ବ୍ରାହ୍ମଣ: ଏହା ଶ୍ରୁତି, ସ୍ମୃତି, ଇତିହାସ ଓ ପୁରାଣର ଅଭିପ୍ରାୟ। ନଚେତ୍ ବ୍ରାହ୍ମଣତ୍ୱ ସିଦ୍ଧି ହୁଏନାହିଁ। ସଚ୍ଚିଦାନନ୍ଦ ସ୍ୱରୂପ ଅଦ୍ୱିତୀୟ ବ୍ରହ୍ମରୂପ ଆତ୍ମାକୁ ଭାବନା କର—ଏହି ଉପନିଷଦର ଉପଦେଶ ॥୯॥
Then who indeed is called a brāhmaṇa? Whoever, having directly realized (made immediately evident) the Self—non-dual, devoid of birth-status, qualities, and actions; free from all defects such as the six waves and the six transformations; of the nature of truth, knowledge, bliss, and infinitude; itself free of conceptual distinctions; the support of all imaginations (kalpas); abiding as the inner controller of all beings; pervading within and without like space; of the nature of unbroken bliss; immeasurable; knowable only through direct experience; shining as immediate (aparokṣa) reality, like an āmalaka fruit in the palm—being fulfilled, free from faults such as desire and attachment; endowed with tranquility and self-control; free from envy, craving, hope, delusion, and the like; with a mind untouched by hypocrisy and ego—such a one alone is the brāhmaṇa: this is the purport of śruti, smṛti, itihāsa, and purāṇa. Otherwise, brāhmaṇahood is not established at all. One should contemplate the non-dual Brahman, the Self of the nature of existence-consciousness-bliss—thus (teaches) the Upaniṣad.