Vajrasuchika
तर्हि जाति ब्राह्मण इति चेत् तन्न। तत्र जात्यन्तरजन्तुष्वनेकजातिसंभवात् महर्षयो बहवः सन्ति। ऋष्यशृङ्गो मृग्याः, कौशिकः कुशात्, जाम्बूको जाम्बूकात्, वाल्मीको वाल्मीकात्, व्यासः कैवर्तकन्यकायाम्, शशपृष्ठात् गौतमः, वसिष्ठ उर्वश्याम्, अगस्त्यः कलशे जात इति श्रुतत्वात्। एतेषां जात्या विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति। तस्मात् न जाति ब्राह्मण इति॥५॥
तर्हि । जातिः । ब्राह्मणः । इति । चेत् । तत् । न । तत्र । जाति-अन्तर-जन्तुषु । अनेक-जाति-संभवात् । महा-ऋषयः । बहवः । सन्ति । ऋष्य-शृङ्गः । मृग्याः । कौशिकः । कुशात् । जाम्बूकः । जाम्बूकात् । वाल्मीकः । वाल्मीकात् । व्यासः । कैवर्तक-न्यकायाम् । शश-पृष्ठात् । गौतमः । वसिष्ठः । उर्वश्याम् । अगस्त्यः । कलशे । जातः । इति । श्रुतत्वात् । एतेषाम् । जात्या । विना । अपि । अग्रे । ज्ञान-प्रतिपादिताः । ऋषयः । बहवः । सन्ति । तस्मात् । न । जातिः । ब्राह्मणः । इति ॥५॥
tarhi jāti brāhmaṇa iti cet tan na | tatra jātyantarajantuṣvanekajātisaṃbhavāt maharṣayo bahavaḥ santi | ṛṣyaśṛṅgo mṛgyāḥ, kauśikaḥ kuśāt, jāmbūko jāmbūkāt, vālmīko vālmīkāt, vyāsaḥ kaivartakanyakāyām, śaśapṛṣṭhāt gautamaḥ, vasiṣṭha urvaśyām, agastyaḥ kalaśe jāta iti śrutatvāt | eteṣāṃ jātyā vināpyagre jñānapratipāditā ṛṣayo bahavaḥ santi | tasmāt na jāti brāhmaṇa iti ||5||
ଯଦି କୁହାଯାଏ—“ତେବେ ଜାତି (ଜନ୍ମ) ହିଁ ବ୍ରାହ୍ମଣ”—ତାହା ଠିକ୍ ନୁହେଁ। କାରଣ ଅନ୍ୟ ଯୋନିର ପ୍ରାଣୀମାନଙ୍କ ମଧ୍ୟରେ ମଧ୍ୟ ଅନେକ ପ୍ରକାର ଜନ୍ମ ଘଟେ; ତେଣୁ ଅନେକ ମହର୍ଷି ଥିଲେ। ଶ୍ରୁତିରେ ଶୁଣାଯାଏ—ଋଷ୍ୟଶୃଙ୍ଗ ମୃଗୀରୁ, କୌଶିକ କୁଶାଘାସରୁ, ଜାମ୍ବୂକ ଶିଆଳରୁ, ବାଲ୍ମୀକ ବାଲ୍ମୀକ (ପିପିଳିକା-ଟିବା)ରୁ, ବ୍ୟାସ ମାଛଧରା କନ୍ୟାରୁ, ଗୌତମ ଖରଗୋଶର ପିଠିରୁ, ବସିଷ୍ଠ ଉର୍ବଶୀରେ, ଏବଂ ଅଗସ୍ତ୍ୟ କଳଶରେ ଜନ୍ମିଥିଲେ। ଏହା ସହ, ଜାତିକୁ ଅତିକ୍ରମ କରି ଆଦିରୁ ଜ୍ଞାନ ଉପଦେଶ କରିଥିବା ଅନେକ ଋଷି ପ୍ରସିଦ୍ଧ। ତେଣୁ ଜାତି ବ୍ରାହ୍ମଣ ନୁହେଁ॥୫॥
If it be said, “then birth (jāti) is the Brāhmaṇa,”—that is not so. For among beings of other births as well, because many kinds of birth occur, there are many great seers. For it is heard that Ṛṣyaśṛṅga was born of a doe, Kauśika from kuśa-grass, Jāmbūka from a jackal, Vālmīka from an anthill, Vyāsa from a fisher-girl, Gautama from the back of a hare, Vasiṣṭha in Urvaśī, and Agastya was born in a pot. And, apart from their birth, many seers are known to have taught knowledge from the beginning. Therefore, birth is not the Brāhmaṇa.