Naadbindu
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा । पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते । सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥ नवमी महती नाम धृतिस्तु दशमी मता । एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥
घोषिणी । प्रथमा । मात्रा । विद्युत्-मात्रा । तथा । अपरा । पतङ्गिनी । तृतीया । स्यात् । चतुर्थी । वायु-वेगिनी ॥ पञ्चमी । नामधेया । तु । षष्ठी । चैन्द्र्य्-अभिधीयते । सप्तमी । वैष्णवी । नाम । अष्टमी । शाङ्करी । इति । च ॥ नवमी । महती । नाम । धृतिः । तु । दशमी । मता । एकादशी । भवेत् । नारी । ब्राह्मी । तु । द्वादशी । परा ॥
ghoṣiṇī prathamā mātrā vidyunmātrā tathā’parā | pataṅginī tṛtīyā syāc caturthī vāyuveginī || pañcamī nāmadheyā tu ṣaṣṭhī caindry abhidhīyate | saptamī vaiṣṇavī nāma aṣṭamī śāṅkarīti ca || navamī mahatī nāma dhṛtis tu daśamī matā | ekādaśī bhaven nārī brāhmī tu dvādaśī parā ||
ପ୍ରଥମ ମାତ୍ରାକୁ ‘ଘୋଷିଣୀ’ କୁହାଯାଏ; ପରବର୍ତ୍ତୀଟି ‘ବିଦ୍ୟୁନ୍ମାତ୍ରା’ । ତୃତୀୟ ‘ପତଙ୍ଗିଣୀ’ ଏବଂ ଚତୁର୍ଥ ‘ବାୟୁବେଗିଣୀ’ । ପଞ୍ଚମ ‘ନାମଧେୟା’; ଷଷ୍ଠ ‘ଚୈନ୍ଦ୍ରୀ’ ବୋଲି ଅଭିଧାନ । ସପ୍ତମ ‘ବୈଷ୍ଣବୀ’; ଅଷ୍ଟମ ‘ଶାଙ୍କରୀ’ । ନବମ ‘ମହତୀ’; ଦଶମ ‘ଧୃତି’ ବୋଲି ମତ । ଏକାଦଶ ‘ନାରୀ’; ଦ୍ୱାଦଶ ପରମ ‘ବ୍ରାହ୍ମୀ’ ।
The first mātrā is called Ghoṣiṇī; the next is called Vidyunmātrā. The third is said to be Pataṅginī; the fourth, Vāyuveginī. The fifth is named Nāmadheyā; the sixth is called Caindrī. The seventh is named Vaiṣṇavī; the eighth, Śāṅkarī. The ninth is named Mahatī; the tenth is considered Dhṛti. The eleventh is Nārī; and the twelfth is the supreme Brāhmī.