Mundaka
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥३॥
यदा । पश्यः । पश्यते । रुक्म-वर्णम् । कर्तारम् । ईशम् । पुरुषम् । ब्रह्म-योनिम् ।
तदा । विद्वान् । पुण्य-पापे । विधूय । निरञ्जनः । परमम् । साम्यम् । उपैति ॥३॥
yadā paśyaḥ paśyate rukma-varṇaṃ kartāram īśaṃ puruṣaṃ brahma-yonim |
tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti ||3||
ଯେତେବେଳେ ଦ୍ରଷ୍ଟା ସୁବର୍ଣ୍ଣବର୍ଣ୍ଣ ତେଜସ୍ବୀ—କର୍ତ୍ତା, ଈଶ୍ୱର, ପୁରୁଷ, ବ୍ରହ୍ମୟୋନି—ତାଙ୍କୁ ଦେଖେ, ସେତେବେଳେ ବିଦ୍ୱାନ ପୁଣ୍ୟପାପକୁ ଝାଡ଼ିଦେଇ, ନିରଞ୍ଜନ ହୋଇ ପରମ ସାମ୍ୟ (ଏକାତ୍ମତା)କୁ ପ୍ରାପ୍ତ ହୁଏ।
When the seer sees the golden-hued (One)—the maker, the Lord, the Person, the source (womb) of Brahman—then the knower, having shaken off merit and demerit, stainless, attains the supreme sameness (identity).