Kalisantarana
पुनर्नारदः पप्रच्छ—भगवन् कोऽस्य विधिरिति। तं होवाच—नास्य विधिरिति। सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति। यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति। तरति वीरहत्याम्। स्वर्णस्तेयात् पूतो भवति। वृषलीगमनात् पूतो भवति। पितृदेवमनुष्याणामपकारात् पूतो भवति। सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात्। सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत्॥ ३॥
पुनः । नारदः । पप्रच्छ । भगवन् । कः । अस्य । विधिः । इति । तम् । ह । उवाच । न । अस्य । विधिः । इति । सर्वदा । शुचिः । अशुचिः । वा । पठन् । ब्राह्मणः । स-लोकताम् । समीपताम् । स-रूपताम् । सायुज्यम् । एति । यदा । अस्य । षोडशकस्य । सार्ध-त्रि-कोटीः । जपति । तदा । ब्रह्म-हत्याम् । तरति । तरति । वीर-हत्याम् । स्वर्ण-स्तेयात् । पूतः । भवति । वृषली-गमनात् । पूतः । भवति । पितृ-देव-मनुष्याणाम् । अपकारात् । पूतः । भवति । सर्व-धर्म-परित्याग-पापात् । सद्यः । शुचिताम् । आप्नुयात् । सद्यः । मुच्यते । सद्यः । मुच्यते । इति । उपनिषत् ॥
punar nāradaḥ papraccha—bhagavan ko 'sya vidhir iti | taṃ hovāca—nāsya vidhir iti | sarvadā śuciraśucir vā paṭhan brāhmaṇaḥ salokatāṃ samīpatāṃ sarūpatāṃ sāyujyam eti | yadāsya ṣoḍaśakasya sārdhatrikoṭīr japati tadā brahmahatyāṃ tarati | tarati vīrahatyām | svarṇasteyāt pūto bhavati | vṛṣalīgamanāt pūto bhavati | pitṛdevamanuṣyāṇām apakārāt pūto bhavati | sarvadharmaparityāgapāpāt sadyaḥ śucitām āpnuyāt | sadyo mucyate sadyo mucyata ity upaniṣat || 3 ||
ନାରଦ ପୁନର୍ବାର ପଚାରିଲେ: “ଭଗବନ୍, ଏହାର ବିଧି (ନିୟମ) କ’ଣ?” ସେ କହିଲେ: “ଏହାର କୌଣସି ବିଧି ନାହିଁ।” ସଦା—ଶୁଚି ହେଉ କି ଅଶୁଚି—ପାଠ କରୁଥିବା ବ୍ରାହ୍ମଣ ଲୋକସାମ୍ୟ, ସାମୀପ୍ୟ, ସାରୂପ୍ୟ ଓ ସାୟୁଜ୍ୟ ପ୍ରାପ୍ତ କରେ। ଯେତେବେଳେ ଏହି ଷୋଳ ନାମର ସମୁଚ୍ଚୟକୁ ସାଢେ ତିନି କୋଟି (3.5 କୋଟି) ଥର ଜପ କରାଯାଏ, ସେତେବେଳେ ବ୍ରହ୍ମହତ୍ୟାର ପାପ ତରିଯାଏ; ବୀରହତ୍ୟାର ପାପ ତରିଯାଏ; ସ୍ୱର୍ଣ୍ଣସ୍ତେୟରୁ ଶୁଦ୍ଧ ହୁଏ; ବୃଷଳୀଗମନରୁ ଶୁଦ୍ଧ ହୁଏ; ପିତୃ-ଦେବ-ମନୁଷ୍ୟଙ୍କୁ ଅପକାର କରିବା ଦୋଷରୁ ଶୁଦ୍ଧ ହୁଏ; ସର୍ବଧର୍ମପରିତ୍ୟାଗର ପାପରୁ ମଧ୍ୟ ତତ୍କ୍ଷଣାତ୍ ଶୁଚିତା ପାଏ। ତତ୍କ୍ଷଣାତ୍ ମୁକ୍ତ ହୁଏ—ତତ୍କ୍ଷଣାତ୍ ମୁକ୍ତ ହୁଏ: ଏହିପରି ଉପନିଷଦ କହେ।
Nārada again asked: “Blessed One, what is its rule (vidhi)?” He replied: “There is no rule for it.” Reciting at all times—whether pure or impure—a brāhmaṇa attains the same world, nearness, likeness, and union (with the Lord). When one repeats this set of sixteen (names) three and a half crores (35 million times), then one crosses beyond the sin of brahmin-slaying; one crosses beyond the slaying of a hero; one becomes purified from stealing gold; one becomes purified from intercourse with a woman of a proscribed class; one becomes purified from harming ancestors, gods, and human beings; from the sin of abandoning all dharmas one immediately attains purity. One is liberated at once—liberated at once: thus (says) the Upaniṣad.