Avadhuta
धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् ।
धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र सम्पन्नम् ॥३२॥
धन्यः अहम् । धन्यः अहम् । कर्तव्यम् मे न विद्यते किञ्चित् ।
धन्यः अहम् । धन्यः अहम् । प्राप्तव्यम् सर्वम् अत्र सम्पन्नम् ॥३२॥
dhanyo'haṃ dhanyo'haṃ kartavyaṃ me na vidyate kiṃcit |
dhanyo'haṃ dhanyo'haṃ prāptavyaṃ sarvam atra sampannam ||32||
ଧନ୍ୟ ମୁଁ, ଧନ୍ୟ ମୁଁ; ମୋ ପାଇଁ କୌଣସି କର୍ତ୍ତବ୍ୟ କିଛି ନାହିଁ। ଧନ୍ୟ ମୁଁ, ଧନ୍ୟ ମୁଁ; ଯାହା ପ୍ରାପ୍ୟ ଥିଲା ସେ ସବୁ ଏଠି ହିଁ ସମ୍ପନ୍ନ।
Blessed am I, blessed am I; for me there exists no duty whatsoever. Blessed am I, blessed am I; everything to be attained is here accomplished.