Avadhuta
अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया । शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥२६॥
अथवा । कृतकृत्ये अपि । लोक-अनुग्रह-काम्यया । शास्त्रीयेण एव । मार्गेण । वर्ते । अहम् । मम । का । क्षतिः ॥२६॥
athavā kṛtakṛtye 'pi lokānugrahakāmyayā | śāstrīyeṇaiva mārgeṇa varte 'haṃ mama kā kṣatiḥ ||26||
ଅଥବା, କୃତକୃତ୍ୟ ହୋଇଥିଲେ ମଧ୍ୟ ଲୋକାନୁଗ୍ରହର ଇଚ୍ଛାରୁ ମୁଁ ଶାସ୍ତ୍ରୀୟ ମାର୍ଗରେ ହିଁ ଚାଲେ; ମୋର କ’ଣ କ୍ଷତି?
Or else, even though (I am) one who has accomplished what is to be accomplished, out of a desire to show favor to the world, I proceed only by the scriptural path; what loss is there for me?