Atharvashiras
ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्—को भवानिति । सोऽब्रवीद्—अहमेकः प्रथममासं वर्तामि च भविष्यामि च; नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत्, दिशश्चान्तरं प्राविशत् । सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहमधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः; समां यो मां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपि । ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन्; ते देवा रुद्रमपश्यन् । ते देवा रुद्रमध्यायन्; ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥१॥
ॐ । देवाḥ ह वै । स्वर्गम् लोकम् आयन् । ते रुद्रम् अपृच्छन् । कः भवान् इति । सः अब्रवीत् । अहम् एकः । प्रथमम् आसम् । वर्तामि च । भविष्यामि च । न अन्यः कश्चित् । मत्तः व्यतिरिक्तः इति । सः अन्तरात् अन्तरम् प्राविशत् । दिशः च अन्तरम् प्राविशत् । सः अहम् । नित्य-अनित्यः अहम् । व्यक्त-अव्यक्तः । ब्रह्म-अब्रह्म । अहम् । प्राञ्चः प्रत्यञ्चः अहम् । दक्षिणाञ्चः उदञ्चः अहम् । अधः च ऊर्ध्वम् च अहम् । दिशः च प्रतिदिशः च अहम् । पुमान् अपुमान् स्त्रियः च अहम् । गायत्री अहम् । सावित्री अहम् । त्रिष्टुप् जगती अनुष्टुप् च अहम् । छन्दः अहम् । गार्हपत्यः । दक्षिण-अग्निः । आहवनीयः अहम् । सत्यः अहम् । गौः अहम् । गौरी अहम् । ऋक् अहम् । यजुः अहम् । साम अहम् । अथर्व-अङ्गिरसः अहम् । ज्येष्ठः अहम् । श्रेष्ठः अहम् । वरिष्ठः अहम् । आपः अहम् । तेजः अहम् । गुह्यः अहम् । अरण्यः अहम् । अक्षरम् अहम् । क्षरम् अहम् । पुष्करम् अहम् । पवित्रम् अहम् । उग्रम् च । मध्यम् च । बहिः च । पुरस्तात् ज्योतिः इति । अहम् एव सर्वेभ्यः । माम् एव सः सर्वः । समाम् यः माम् वेद । सः सर्वान् देवान् वेद । सर्वान् च वेदान् स-अङ्गान् अपि । ब्रह्म । ब्राह्मणैः च । गाम् गोभिः । ब्राह्मणान् ब्राह्मणेन । हविः हविषा । आयुः आयुषा । सत्येन सत्यम् । धर्मेण धर्मम् । तर्पयामि । स्वेन तेजसा । ततः ह वै । ते देवाḥ । रुद्रम् अपृच्छन् । ते देवाḥ । रुद्रम् अपश्यन् । ते देवाḥ । रुद्रम् अध्यायन् । ततः देवाḥ । ऊर्ध्व-बाहवः । रुद्रम् स्तुवन्ति ॥१॥
oṃ devā ha vai svargaṃ lokam āyaṃs te rudram apṛcchan—ko bhavān iti | so ’bravīd—aham ekaḥ prathamam āsaṃ vartāmi ca bhaviṣyāmi ca; nānyaḥ kaścin matto vyatirikta iti | so ’ntarād antaraṃ prāviśat, diśaś cāntaraṃ prāviśat | so ’haṃ nityānityo ’haṃ vyaktāvyakto brahmābrahmāhaṃ prāñcaḥ pratyañco ’haṃ dakṣiṇāñca udāñco ’ham adhaś cordhvaṃ cāhaṃ diśaś ca pratidiśaś cāhaṃ pumānapumān striyaś cāhaṃ gāyatry ahaṃ sāvitrīy ahaṃ triṣṭub jagaty anuṣṭup cāhaṃ chando ’haṃ gārhapatyo dakṣiṇāgnir āhavanīyo ’haṃ satyo ’haṃ gaur ahaṃ gaurīy aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso ’haṃ jyeṣṭho ’haṃ śreṣṭho ’haṃ variṣṭho ’ham āpo ’haṃ tejo ’haṃ guhyo ’ham araṇyo ’ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca madhyaṃ ca bahiś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ; samāṃ yo māṃ veda sa sarvān devān veda sarvāṃś ca vedān sāṅgān api | brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā | tato ha vai te devā rudram apṛcchan; te devā rudram apaśyan | te devā rudram adhyāyan; tato devā ūrdhvabāhavo rudraṃ stuvanti ||1||
ଓଁ ଦେବମାନେ ନିଶ୍ଚୟ ସ୍ୱର୍ଗଲୋକକୁ ଗଲେ; ସେମାନେ ରୁଦ୍ରଙ୍କୁ ପଚାରିଲେ—“ଭବାନ କିଏ?” ସେ କହିଲେ—“ମୁଁ ଏକମାତ୍ର; ମୁଁ ପ୍ରଥମ ଥିଲି, ଅଛି, ଏବଂ ଭବିଷ୍ୟତରେ ମଧ୍ୟ ରହିବି; ମୋଠାରୁ ଭିନ୍ନ ଅନ୍ୟ କେହି ନାହିଁ।” ସେ ଅନ୍ତରର ଅନ୍ତରକୁ ପ୍ରବେଶ କଲେ, ଦିଗମାନଙ୍କ ଅନ୍ତରକୁ ମଧ୍ୟ ପ୍ରବେଶ କଲେ। “ମୁଁ ନିତ୍ୟ ଓ ଅନିତ୍ୟ; ମୁଁ ବ୍ୟକ୍ତ ଓ ଅବ୍ୟକ୍ତ; ମୁଁ ବ୍ରହ୍ମ ଓ ଅବ୍ରହ୍ମ। ମୁଁ ପୂର୍ବ ଓ ପଶ୍ଚିମ; ମୁଁ ଦକ୍ଷିଣ ଓ ଉତ୍ତର; ମୁଁ ତଳେ ଓ ଉପରେ; ମୁଁ ଦିଗ ଓ ପ୍ରତିଦିଗ। ମୁଁ ପୁରୁଷ, ଅପୁରୁଷ ଓ ସ୍ତ୍ରୀ। ମୁଁ ଗାୟତ୍ରୀ, ମୁଁ ସାବିତ୍ରୀ; ମୁଁ ତ୍ରିଷ୍ଟୁଭ୍, ଜଗତୀ, ଅନୁଷ୍ଟୁଭ୍—ଛନ୍ଦ। ମୁଁ ଗାର୍ହପତ୍ୟ, ଦକ୍ଷିଣାଗ୍ନି, ଆହବନୀୟ। ମୁଁ ସତ୍ୟ। ମୁଁ ଗୋ; ମୁଁ ଗୌର (ତାମ୍ରବର୍ଣ୍ଣ)। ମୁଁ ଋକ୍, ଯଜୁଃ, ସାମ, ଅଥର୍ବାଙ୍ଗିରସ। ମୁଁ ଜ୍ୟେଷ୍ଠ, ଶ୍ରେଷ୍ଠ, ବରିଷ୍ଠ। ମୁଁ ଆପଃ; ମୁଁ ତେଜ। ମୁଁ ଗୁହ୍ୟ; ମୁଁ ଅରଣ୍ୟ। ମୁଁ ଅକ୍ଷର; ମୁଁ କ୍ଷର। ମୁଁ ପୁଷ୍କର; ମୁଁ ପବିତ୍ର। ମୁଁ ଉଗ୍ର; ମୁଁ ମଧ୍ୟ; ମୁଁ ବାହ୍ୟ; ମୁଁ ପୁରସ୍ତାତ୍ ଜ୍ୟୋତି। ସମସ୍ତରେ ମୁଁ ଏକା; ସମସ୍ତ ମୋହିଁ। ଯେ ମୋତେ ସମତାରେ ଜାଣେ, ସେ ସମସ୍ତ ଦେବତା ଓ ଅଙ୍ଗସହିତ ସମସ୍ତ ବେଦକୁ ଜାଣେ। ନିଜ ତେଜରେ ମୁଁ ବ୍ରହ୍ମକୁ ବ୍ରାହ୍ମଣମାନଙ୍କ ଦ୍ୱାରା, ଗାଈକୁ ଗୋଭିଃ ଦ୍ୱାରା, ବ୍ରାହ୍ମଣକୁ ବ୍ରାହ୍ମଣ ଦ୍ୱାରା, ହବିକୁ ହବି ଦ୍ୱାରା, ଆୟୁକୁ ଆୟୁ ଦ୍ୱାରା, ସତ୍ୟକୁ ସତ୍ୟ ଦ୍ୱାରା, ଧର୍ମକୁ ଧର୍ମ ଦ୍ୱାରା ତୃପ୍ତ କରେ।” ପରେ ଦେବମାନେ ପୁଣି ରୁଦ୍ରଙ୍କୁ ପଚାରିଲେ; ଦେବମାନେ ରୁଦ୍ରଙ୍କୁ ଦେଖିଲେ; ଦେବମାନେ ରୁଦ୍ରଙ୍କୁ ଅଧ୍ୟୟନ କଲେ; ତାପରେ ଦେବମାନେ ଉର୍ଦ୍ଧ୍ୱବାହୁ ହୋଇ ରୁଦ୍ରଙ୍କୁ ସ୍ତୁତି କରନ୍ତି ॥୧॥
The gods, indeed, went to the heavenly world; they asked Rudra: “Who are you?” He said: “I am the One; I was first; I exist and I shall be. There is no other whatsoever distinct from me.” He entered within what is within; he entered within the directions. “I am the eternal and the non-eternal; I am the manifest and the unmanifest; I am Brahman and not-Brahman. I am the eastward and the westward; I am the southward and the northward; I am below and above; I am the directions and the intermediate directions. I am male, non-male, and female. I am Gāyatrī; I am Sāvitrī; I am Triṣṭubh, Jagatī, and Anuṣṭubh; I am metre. I am the Gārhapatya, the Dakṣiṇa fire, and the Āhavanīya. I am truth. I am the cow; I am the tawny one. I am Ṛk; I am Yajus; I am Sāman; I am Atharvan-Aṅgiras. I am the eldest, the best, the most excellent. I am the waters; I am radiance. I am the secret; I am the wilderness. I am the imperishable; I am the perishable. I am the lotus; I am the purifier. I am the fierce; I am the middle; I am the outside; I am the light in front. I alone am (present) in all; all is only me. Whoever knows me as the same (in all) knows all the gods and all the Vedas with their auxiliaries. By my own splendor I satisfy Brahman with brāhmaṇas, cows with cattle, brāhmaṇas with brāhmaṇas, oblation with oblation, life with life, truth with truth, dharma with dharma.” Then the gods again questioned Rudra; the gods saw Rudra; the gods recited Rudra; then the gods, with arms raised, praise Rudra.