अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि
agnér janítram asi | vṛ́ṣaṇau stháḥ | urváśyā āyúr asi | purū́ravā asi | gāyatréṇa tvā chándasā manthāmi | trā́iṣṭubhena tvā chándasā manthāmi | jā́gatena tvā chándasā manthāmi
ତୁମେ ଅଗ୍ନିଙ୍କ ଜନିତ୍ର (ଉତ୍ପାଦକ) ଅଟ; ତୁମେ ଦୁଇଜଣେ ବୃଷଣୌ—ବଳବାନ। ତୁମେ ଉର୍ବଶୀଙ୍କ ଆୟୁ (ଜୀବନ) ଅଟ; ତୁମେ ପୁରୂରବା ଅଟ। ଗାୟତ୍ରୀ ଛନ୍ଦରେ ମୁଁ ତୁମକୁ ମଥୁଛି; ତ୍ରୈଷ୍ଟୁଭ ଛନ୍ଦରେ ମୁଁ ତୁମକୁ ମଥୁଛି; ଜାଗତୀ ଛନ୍ଦରେ ମୁଁ ତୁମକୁ ମଥୁଛି।
अग्नेः । जनित्रम् । असि । वृषणौ । स्थः । उर्वश्याः । आयुः । असि । पुरूरवाः । असि । गायत्रेण । त्वा । छन्दसा । मन्थामि । त्रैष्टुभेन । त्वा । छन्दसा । मन्थामि । जागतेन । त्वा । छन्दसा । मन्थामि ।