दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा
divó vā viṣṇa utá vā pṛthivyā́ mahó vā viṣṇa urór antárikṣāt | ubhā́ hí hástā vásunā pṛṇasvā prá yaccha dákṣiṇād óta savyā́d viṣṇáve tvā
ହେ ବିଷ୍ଣୁ, ଦ୍ୟୌରୁ ହେଉ କି ପୃଥିବୀରୁ, କିମ୍ବା ମହା ବିଶାଳ ଅନ୍ତରିକ୍ଷରୁ—ଉଭୟ ହସ୍ତକୁ ବସୁ (ଧନ) ଦ୍ୱାରା ପୂର୍ଣ୍ଣ କର; ଦକ୍ଷିଣରୁ ମଧ୍ୟ ଓ ବାମରୁ ମଧ୍ୟ ଦାନ ପ୍ରସାର କର: ବିଷ୍ଣୁଙ୍କ ପାଇଁ ତୁମକୁ!
दि॒वः । वा॒ । विष्णो॑ इति । उ॒त । वा॒ । पृ॒थि॒व्याः । म॒हः । वा॒ । विष्णो॑ इति । उ॒रोः । अ॒न्तरि॑क्षात् । उ॒भा । हि । हस्ता॑ । वसु॑ना । पृ॒ण॒स्व । प्र । य॒च्छ । दक्षि॑णात् । उत । स॒व्यात् । विष्ण॑वे । त्वा