मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः
mā ṣū ṇa índrā́tra pṛtsú deváir ásti hí ṣmā te śuṣminnavayā́ḥ | maháś cid yásya mīḍhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ||
ହେ ଇନ୍ଦ୍ର, ଦେବମାନଙ୍କ ସହ ଯୁଦ୍ଧମଧ୍ୟରେ ଏଠାରେ ଆମକୁ ତ୍ୟାଗ କରନି; ହେ ଶୁଷ୍ମବାନ, ତୋର ନିଶ୍ଚିତ ରକ୍ଷାବଳୟ ଅଛି। ମହାଦାତା, ହବିଷ୍ ଅର୍ପଣକାରୀଙ୍କୁ ମରୁତମାନେ ମଧ୍ୟ ନିଜ ଗୀତଦ୍ୱାରା ବନ୍ଦନା କରନ୍ତି।
मा । सु । नः । इन्द्र । अत्र । पृत्सु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अवयाः । महः । चित् । यस्य । मीढुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ।