इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑ः । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय
índrasya vájro marútām ánīkaṃ mitrásya gárbho váruṇasya nā́bhiḥ | sémāṃ no havyádātiṃ juṣāṇó deva ratha práti havyā́ gṛbhāya
ଇନ୍ଦ୍ରଙ୍କ ବଜ୍ର, ମରୁତମାନଙ୍କ ଅନୀକ (ଯୁଦ୍ଧମୁଖ), ମିତ୍ରଙ୍କ ଗର୍ଭ, ବରୁଣଙ୍କ ନାଭି—ହେ ଦେବ ରଥ! ଆମର ଏହି ହବ୍ୟଦାତି (ହବିଷ୍ୟାର୍ପଣ) କୁ ପ୍ରସନ୍ନତାରେ ଗ୍ରହଣ କରି, ପ୍ରତିହବ୍ୟ ରୂପେ ହବ୍ୟମାନଙ୍କୁ ଗ୍ରହଣ କର।
इन्द्र॑स्य । वज्रः॑ । मरुता॑म् । अनी॑कम् । मित्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ । सः । इमा॑म् । नः॑ । हव्य॑-दा॑तिम् । जुषा॒णः । देव॑ । रथ॑ । प्रति॑ । ह॒व्या । गृ॑भाय