हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न् यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत्
híraṇyaśṛṅgo'yo asya pā́dā manójavā́ avára índra āsīt | devā́ íd asya havír ádyam āyan yó arvántaṃ prathamó adhyátiṣṭhat
ସୁବର୍ଣ୍ଣ-ଶୃଙ୍ଗବାନ, ଲୋହାର ପାଦବାନ, ମନୋବେଗ ସମ ଦ୍ରୁତ—ସେ କନିଷ୍ଠ (ଯୁବ) ଇନ୍ଦ୍ର ଥିଲା। ଦେବମାନେ ତାହାର ହବିଷ୍-ଆହୁତିକୁ ଆସିଲେ; ସେଇ ଥିଲା ପ୍ରଥମ ଆହୁତି—ଯିଏ ପ୍ରଥମେ ଅଶ୍ୱକୁ ଅଧିଷ୍ଠିତ କଲା (ଚଢ଼ିଲା)।
हिरण्य-शृङ्गः । अयः । अस्य । पादाः । मनः-जवाः । अवरः । इन्द्रः । आसीत् । देवाः । इत् । अस्य । हविः । अद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधि-अतिष्ठत् ।