वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राऽश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ मयो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॒सि॒ वृषा॑ऽसि नृ॒मणा॑ असि । ययु॒र्नामा॑ऽसि॒ शिशु॒र्नामा॑स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तᳪ रक्षते॒ह रन्ति॑ रि॒ह र॑मतामि॒ह धृति॑रि॒ह स्वधृ॑ति॒: स्वाहा॑
vibhū́r mātrā́ prabhū́ḥ pitrā́’śvo’si hayo’sy atyo’si mayo’sy arvā́’si saptír asi vājyo’si vṛ́ṣā’si nṛmaṇā́ asi | yayúrnā́mā’si śiśúrnā́mā’sy ādityā́nāṃ patvā́’nv ìhi devā āśāpālā etáṃ devébhyo’śváṃ médhāya prókṣitaṃ rakṣatéhá ranti rihá ramatām ihá dhṛ́tir ihá svadhṛ́tiḥ svā́hā
ମାତ୍ରାରେ ବିଭୂ, ପିତୃଦ୍ୱାରା ପ୍ରଭୂ—ତୁମେ ଅଶ୍ୱ; ତୁମେ ହୟ, ଅତ୍ୟ; ତୁମେ ମୟ, ଅର୍ୱା; ତୁମେ ସପ୍ତି, ବାଜ୍ୟ; ତୁମେ ବୃଷା, ନୃମଣା। ‘ଯୟୁ’ ତୁମ ନାମ; ‘ଶିଶୁ’ ତୁମ ନାମ। ପତ୍ୱା (ଉଡ଼ିଯାଇ) ଆଦିତ୍ୟମାନଙ୍କୁ ଅନୁସରଣ କର। ହେ ଦେବମାନେ, ଆଶାପାଳମାନେ, ଏହି ଅଶ୍ୱକୁ ଦେବମାନଙ୍କ ପାଇଁ, ମେଧା ପାଇଁ ପ୍ରୋକ୍ଷିତ (ପବିତ୍ର ଜଳରେ ଛିଟାଯାଇଥିବା) ଭାବେ ରକ୍ଷା କର। ଏଠାରେ ରମ, ଏଠାରେ ରିହ, ଏଠାରେ ରନ୍ତି; ଏଠାରେ ଧୃତି, ଏଠାରେ ସ୍ୱଧୃତି—ସ୍ୱାହା।
वि॒भूः । मा॒त्रा । प्र॒भूः । पि॒त्रा । अ॒श्वः । अ॒सि॒ । हयः । अ॒सि॒ । अत्यः । अ॒सि॒ । मयः । अ॒सि॒ । अर्वा । अ॒सि॒ । सप्तिः । अ॒सि॒ । वा॒ज्यः । अ॒सि॒ । वृषा । अ॒सि॒ । नृ॒मणाः । अ॒सि॒ । ययुः । नाम । अ॒सि॒ । शिशुः । नाम । अ॒सि॒ । आ॒दि॒त्यानाम् । पत्वा । अनु । इहि । देवा॑ः । आ॒शा॒पा॒लाः । ए॒तम् । दे॒वेभ्यः । अ॒श्वम् । मेधाय । प्रोक्षि॑तम् । रक्षत । इ॒ह । रन्ति । इ॒ह । रिह । इ॒ह । रमताम् । इ॒ह । धृतिः । इ॒ह । स्वधृतिः । स्वाहा॑