अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪ रेता॑ᳪसि जिन्वति
agnír mū̱rdhā́ diváḥ kakút-pátiḥ pṛthivyā́ ayám | apā́ṃ rétāṃsi jinvati
ଅଗ୍ନି ଦ୍ୟୌର ମୂର୍ଧା; ପୃଥିବୀର ଶିଖରର ପତି ଏହି (ଅଗ୍ନି) ଅଟନ୍ତି। ସେଇ ଅପାଂ ରେତାଂସି—ଜଳମାନଙ୍କର ଜନନବୀଜକୁ—ଜୀବନ୍ତ କରନ୍ତି।
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पति॑ः । पृ॒थि॒व्याः । अ॒यम् । अ॒पाम् । रेता॑ᳪसि । जि॒न्व॒ति॒