Sukta 8.70
कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् । अजां सूरिर्न धातवे ॥
क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् । अ॒जां सू॒रिर्न धात॑वे ॥
karṇagṛ́hyā maghávā śauradevyó vatsáṃ nas tribhyá ā́nayat | ajā́ṃ sūrír ná dhā́tave ||
କର୍ଣଗୃହ୍ୟା, ମଘବା—ଉଦାର ଦାତା—ଶୌରଦେବ୍ୟ, ବୀର-ଦେବଙ୍କୁ ନିବେଦିତ, ତ୍ରିବିଧ ଆବରଣରୁ ଆମ ବଛାକୁ ଆଣିଲା। ଏବଂ ସ୍ଥାପନା ପାଇଁ—ସୂରି ପରି—ଏକ ଅଜାଂ (ଛେଳି) ମଧ୍ୟ ଆଣିଲା।
क॒र्ण॒ऽगृह्य॑ । म॒घऽवा॑ । शौ॒र॒ऽदे॒व्यः । व॒त्सम् । नः॒ । त्रि॒ऽभ्यः । आ । अ॒न॒य॒त् । अ॒जाम् । सू॒रिः । न । धात॑वे ॥कर्णगृह्य । मघवा । शौरदेव्यः । वत्सम् । नः । त्रिभ्यः । आ । अनयत् । अजाम् । सूरिः । न । धातवे ॥karṇa-gṛhya | magha-vā | śaura-devyaḥ | vatsam | naḥ | tri-bhyaḥ | ā | anayat | ajām | sūriḥ | na | dhātave