Sukta 8.26
युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । आन्नो वायो मधु पिबास्माकं सवना गहि ॥
यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो । आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥
yukṣvā́ hí tvaṃ rathāsáhā yuvásva póṣyā vaso | ā́n no vāyo mádhu pibāsmā́kaṃ sávānā gáhi ||
ହେ ବାସୋ (ବାୟୁ), ତୁମେ ରଥବଳର ଅଧିପତି-ସହାୟକ; ତେଣୁ (ରଥରେ) ଅଶ୍ୱମାନଙ୍କୁ ଯୋଗ କର। ନିଜ ବଳରେ ଯୁବ ହୋଇ ବୃଦ୍ଧି ପା, ହେ ପୋଷଣର ସ୍ୱାମୀ। ଏବେ, ହେ ବାୟୁ, ମଧୁର ମଧୁ ପାନ କରି ଆମ ସବନ-ଯଜ୍ଞମାନଙ୍କୁ ଆସ।
यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ । आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥युक्ष्व । हि । त्वम् । रथसहा । युवस्व । पोष्या । वसो इति । आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि ॥yukṣva | hi | tvam | ratha-sahā | yuvasva | poṣyā | vaso iti | āt | naḥ | vāyo iti | madhu | piba | asmākam | savanā | ā | gahi