Sukta 6.15
तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम् । यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् । य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥
tám agne pāsy utá táṃ piparṣi yás ta ā́naṭ kaváye śūra dhītím | yajñásya vā níśitiṃ vódítiṃ vā tám ít pṛṇakṣi śávasot rāyā́ ||
ହେ ଅଗ୍ନି, ତାହାକୁ ତୁମେ ରକ୍ଷା କର ଏବଂ ତାହାକୁ ପାର କରାଅ—ଯେ ତୁମ ପାଖକୁ, ହେ ଶୂର କବି, ଧୀତି (ପ୍ରେରିତ ଚିନ୍ତା) ସହ ଆସି ପହଞ୍ଚିଛି। ଯଜ୍ଞର ନିଶିତି (ତୀକ୍ଷ୍ଣତା) ହେଉ କି ତାହାର ଉଦିତି (ଉନ୍ନତ ଉଦୟ) ହେଉ—ତାହାକୁ ହିଁ ତୁମେ ଶବସ (ବଳ) ଓ ରାୟା (ଅନ୍ତରଙ୍ଗ ସମ୍ପଦ/ସମୃଦ୍ଧି)ରେ ପୂର୍ଣ୍ଣ କର।
तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् । य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥तम् । अग्ने । पासि । उत । तम् । पिपर्षि । यः । ते । आनट् । कवये । शूर । धीतिम् । यज्ञस्य । वा । निशितिम् । वा । उत्इतिम् । वा । तम् । इत् । पृणक्षि । शवसा । उत । राया ॥tam | agne | pāsi | uta | tam | piparṣi | yaḥ | te | ānaṭ | kavaye | śūra | dhītim | yajñasya | vā | ni-śitim | vā | ut-itim | vā | tam | it | pṛṇakṣi | śavasā | uta | rāyā