Sukta 5.51
सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । आ याह्यग्ने अत्रिवत्सुते रण ॥
स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
sajū́r mitrā́varuṇābhyāṃ sajū́ḥ sómena víṣṇunā | ā́ yāhy agne atrivát suté ráṇa ||
ମିତ୍ର-ବରୁଣଙ୍କ ସହ ଏକ ସମ୍ମତିରେ, ସୋମ ଓ ବିଷ୍ଣୁ ସହ ମଧ୍ୟ ଏକସାଥି—ହେ ଅଗ୍ନି, ଏଠାକୁ ଆ; ଅତ୍ରିଙ୍କ ପଥ ପରି। ସୁତ ସୋମରସରେ ହର୍ଷ କର—ଯେପରି ସୁସଙ୍ଗତି, ବିଶାଳ ଋତ, ଆନନ୍ଦ ଓ ସର୍ବବ୍ୟାପୀ ପଦଚାଳନା ଅଗ୍ନିରେ ଏକତ୍ର ହେଉ।
स॒ऽजूः । मि॒त्रावरु॑णाभ्याम् । स॒ऽजूः । सोमे॑न । विष्णु॑ना । आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । रण॒ ॥सजूः । मित्रावरुणाभ्याम् । सजूः । सोमेन । विष्णुना । आ । याहि । अग्ने । अत्रिवत् । सुते । रण ॥sa-jūḥ | mitrāvaruṇābhyām | sa-jūḥ | somena | viṣṇunā | ā | yāhi | agne | atri-vat | sute | raṇa