Sukta 5.29
इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥
इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म । वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीर॒: स्वपा॑ अतक्षम् ॥
índra bráhma kriyámāṇā juṣasva yā́ te śaviṣṭha návyā́ ákarmā | vástreva bhadrā́ súkṛtā vasūyú ratháṁ na dhīráḥ svápā atakṣam ||
ହେ ଇନ୍ଦ୍ର! ଗଢ଼ାଯାଉଥିବା ବ୍ରହ୍ମ (ସ୍ତୁତି-ମନ୍ତ୍ର)କୁ ଗ୍ରହଣ କର; ହେ ଅତିଶୟ ବଳବାନ! ତୁମ ପାଇଁ ଆମେ କରିଥିବା ନୂତନ କର୍ମଗୁଡ଼ିକୁ ଆନନ୍ଦରେ ଗ୍ରହଣ କର। ଶୁଭ, ସୁନିର୍ମିତ, ବସୁ-ଇଚ୍ଛୁକ—ଭଲ ବସ୍ତ୍ର ପରି—ଏବଂ ରଥ ପରି, ଧୀର ଓ କୁଶଳମାନେ ଏହାକୁ ଗଢ଼ିଛନ୍ତି।
इन्द्र॑ । ब्रह्म॑ । क्रि॒यमा॑णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः॑ । अक॑र्म । वस्त्रा॑ऽइव । भ॒द्रा । सुऽकृ॑ता । व॒सु॒ऽयुः । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ॥इन्द्र । ब्रह्म । क्रियमाणा । जुषस्व । या । ते । शविष्ठ । नव्याः । अकर्म । वस्त्राइव । भद्रा । सुकृता । वसुयुः । रथम् । न । धीरः । सुअपाः । अतक्षम् ॥indra | brahma | kriyamāṇā | juṣasva | yā | te | śaviṣṭha | navyāḥ | akarma | vastrāiva | bhadrā | su-kṛtā | vasu-yuḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam