Sukta 10.88
द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥
द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥
dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām | tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca ||
ଦୁଇଟି ଶ୍ରୁତି-ଧାରା ମୁଁ ଶୁଣିଛି—ପିତୃମାନଙ୍କର, ଏବଂ ଦେବମାନଙ୍କର ଓ ମର୍ତ୍ୟମାନଙ୍କର ମଧ୍ୟ। ସେଇ ଦୁଇ ଦ୍ୱାରା ଏହି ସମଗ୍ର ଚଳମାନ ବିଶ୍ୱ ଏକତ୍ର ହୁଏ; କାରଣ ଏହା ପିତା ଓ ମାତାଙ୍କ ମଧ୍ୟରେ ଅବସ୍ଥିତ।
द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥द्वे इति । स्रुती इति । अशृणवम् । पितॄणाम् । अहम् । देवानाम् । उत । मर्त्यानाम् । ताभ्याम् । इदम् । विश्वम् । एजत् । सम् । एति । यत् । अन्तरा । पितरम् । मातरम् । च ॥dve iti | srutī iti | aśṛṇavam | pitṝṇām | aham | devānām | uta | martyānām | tābhyām | idam | viśvam | ejat | sam | eti | yat | antarā | pitaram | mātaram | ca