Sukta 10.130
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥
sahástomāḥ saháchandasa ā́vṛtaḥ sahápramā ṛ́ṣayaḥ saptá daivyā́ḥ | pū́rveṣāṃ pánthām anudṛ́śya dhīrā́ anvā́lebhire rathyò na raśmī́n ||
ସ୍ତୋତ୍ର ସହ, ଛନ୍ଦ ସହ, ପ୍ରମାଣ ସହ—ସବୁ ଏକାସାଥି—ସାତ ଦୈବ୍ୟ ଋଷି ଅନ୍ତର୍ମୁଖ ହେଲେ। ପୂର୍ବଜମାନଙ୍କ ପଥକୁ ଦେଖି ଧୀରମାନେ ତାହାକୁ ଧରି ରହିଲେ—ଯେପରି ରଥସାରଥି ରଶ୍ମି (ଲଗାମ)କୁ ଦୃଢ଼ଭାବେ ଧରେ।
स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥सहस्तोमाः । सहछन्दसः । आवृतः । सहप्रमाः । ऋषयः । सप्त । दैव्याः । पूर्वेषाम् । पन्थाम् । अनुदृश्य । धीराः । अनुआलेभिरे । रथ्यः । न । रश्मीन् ॥saha-stomāḥ | saha-chandasaḥ | āvṛtaḥ | saha-pramāḥ | ṛṣayaḥ | sapta | daivyāḥ | pūrveṣām | panthām | anu-dṛśya | dhīrāḥ | anu-ālebhire | rathyaḥ | na | raśmīn