Sukta 6.19
जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि । अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥
जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ । अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥
jánaṃ vajrin máhi cit mányamānam ebhyó nṛ́bhyo randhayā yéṣv ásmi | ádhā hí tvā pṛthivyā́ṃ śū́ra-sātau hávām̐he tánaye góṣv apsú ||
O wielder of the thunderbolt, subdue for us the arrogant human force, however great it deems itself, before these our people among whom I stand; therefore on earth, in the winning of the hero, we call you—for the inner birth, for the rays of Light, for the waters of being.
जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ । अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥जनम् । वज्रिन् । महि । चित् । मन्यमानम् । एभ्यः । नृभ्यः । रन्धय । येषु । अस्मि । अध । हि । त्वा । पृथिव्याम् । शूरसातौ । हवामहे । तनये । गोषु । अप्सु ॥janam | vajrin | mahi | cit | manyamānam | ebhyaḥ | nṛ-bhyaḥ | randhaya | yeṣu | asmi | adha | hi | tvā | pṛthivyām | śūra-sātau | havāmahe | tanaye | goṣu | ap-su