Sukta 3.31
महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् । इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥
महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥
máhi kṣétram purúś candráṃ vividvā́n ā́dit sakhíbhyas cárathaṃ sámairat | índro nṛ́bhir ajanad dī́dyānaḥ sā́kaṃ sū́ryam uṣásaṃ gātúm agním ||
Knowing the vast field and the many shining lights, he then set the course together for his comrades. Indra, blazing, generated with the human powers the Sun and the Dawn, the path, and Agni—the divine will that leads.
महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् । इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखिभ्यः । चरथम् । सम् । ऐरत् । इन्द्रः । नृभिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्निम् ॥mahi | kṣetram | puru | candram | vividvān | āt | it | sakhi-bhyaḥ | caratham | sam | airat | indraḥ | nṛ-bhiḥ | ajanat | dīdyānaḥ | sākam | sūryam | uṣasam | gātum | agn im