Sukta 10.94
तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः । अनातुरा अजराः स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥
तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः । अ॒ना॒तु॒रा अ॒जरा॒: स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥
tṛdilā́ atṛ́dilāso ádrayo ’śramaṇā́ aśṛ́thitā amṛ́tyavaḥ | anāturā́ ajárāḥ sthā́maviṣṇavaḥ supī́vaso atṛ́ṣitā atṛ́ṣṇajaḥ ||
O pressing-stones, you are firm and unbroken, tireless and unloosened, deathless in your working. You are without affliction, unaging; you stand in a strength that does not fail. Full of rich sap, you are unthirsting, born of the thirstless Delight.
तृ॒दि॒लाः । अतृ॑दिलासः । अद्र॑यः । अ॒श्र॒म॒णाः । अशृ॑थिताः । अमृ॑त्यवः । अ॒ना॒तु॒राः । अ॒जराः॑ । स्थ । अम॑विष्णवः । सु॒ऽपी॒वसः॑ । अतृ॑षिताः । अतृ॑ष्णऽजः ॥तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः । अनातुराः । अजराः । स्थ । अमविष्णवः । सुपीवसः । अतृषिताः । अतृष्णजः ॥tṛdilāḥ | atṛdilāsaḥ | adrayaḥ | aśramaṇāḥ | aśṛthitāḥ | amṛtyavaḥ | anāturāḥ | ajarāḥ | stha | amaviṣṇavaḥ | su-pīvasaḥ | atṛṣitāḥ | atṛṣṇa-jaḥ