अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: । यः शᳪस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः
asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ | yáḥ śáṃsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́n avantu devā́ḥ ||
Bagi kami di sini, semoga para Rudra—yang murah kurnia, laksana gunung—hadir dalam pembunuhan Vṛtra, dalam seruan perang, dalam seia-sekata. Dia yang melafazkan, yang memuji—baginya dianugerahkan sandaran yang teguh. Semoga para dewa, dengan Indra sebagai yang terutama, melindungi kami.
अस्मे । रुद्राः । मेहनाः । पर्वतासः । वृत्र-हत्ये । भर-हूतौ । स-जोषाः । यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्र-ज्येष्ठाः । अस्मान् । अवन्तु । देवाः ।