न त्वावाँ॑२ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते । अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥
ná tvāvā́m̐2 anyó divyó ná pārthivó ná jātó ná janiṣyate | aśvāyánto maghavann indra vājíno gavyántas tvā havāmahe ||
Tiada yang lain—baik yang di langit mahupun di bumi—sebanding dengan Engkau; tiada yang telah lahir, dan tiada pula yang akan lahir. Mengharap kuda, wahai Indra yang pemurah, mengharap kemenangan, mengharap lembu, kami menyeru-Mu.
न । त्वा॒-वाँ॒ । अ॒न्यः । दि॒व्यः । न । पा॒र्थि॒वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अ॒श्व॒-आ॒यन्तः । म॒घ॒व॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒वि॒-आ॒यन्तः । त्वा॒ । ह॒वा॒म॒हे॒ ।