यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॒पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म्
yán nīkṣáṇaṃ māṃspácanyā ukhā́yā yā́ pátrāṇi yūṣṇá ā́secanāni | ūṣmáṇyā apidhā́nā carūṇā́m aṅkā́ḥ sūnā́ḥ pári bhūṣanty áśvam
Apa pun pemeriksaan atas ukhā (periuk) untuk memasak daging; apa pun bejana-bejana untuk menuangkan kuah; apa pun penutup-penutup penahan panas; apa pun mangkuk-mangkuk yang dibuat rapi bagi hidangan—semuanya itu, tersusun sebagaimana mestinya, mengelilingi dan menghiasi Kuda itu.
यत् । नीक्षणम् । मांस-पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आ-सेचनानि । ऊष्मण्या । अपि-धानाः । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम् ।