पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒साग॑मन्नि॒ह
pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhányāvāno vidáthēṣu jágmayāḥ | agníjihvā mánavaḥ sū́racakṣaso víśve no devā́ ávasā́gaman níha
Para Marut yang berkuda belang, putera-putera Pṛśni, yang berarak indah, yang biasa datang ke upacara-upacara; para Manu yang berlidah Agni, yang bermata surya—semoga semua Dewa datang ke sini kepada kami dengan pertolongan.
पृष॑त्-अश्वाः । म॒रुतः॑ । पृश्नि॑-मातरः । शुभम्-यावा॑नः । वि॒दथे॑षु । जग्म॑यः । अ॒ग्नि-जि॒ह्वाः । मन॑वः । सूर॑-चक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॒सा । आ॒ग॒म॒न् । इ॒ह