सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॒ऽल॒ज आ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒त॑ये द्यावापृथि॒वीय॑ः कू॒र्मः
supárṇaḥ pā́rjanya ātír vā́haso darvidā́s te vā́yave bṛ́haspátaye vā́caspátaye paiṅgarājó ’lája āntaríkṣaḥ plavó mádgur matsyás te nadīpátaye dyāvāpṛthivī́yaḥ kū́rmaḥ
Suparṇa (burung bersayap indah), yang-Parjanya, āti, sang pembawa, dan pemecah kayu—itulah bagi Vāyu, bagi Bṛhaspati, bagi Vācaspati. Paiṅgarāja, alaja, makhluk udara; pengapung, penyelam, ikan—itulah bagi Penguasa sungai-sungai. Yang milik Langit dan Bumi: kura-kura.
सुपर्णः । पार्जन्यः । आतिः । वाहसः । दर्विदाः । ते । वायवे । बृहस्पतये । वाचस्पतये । पैङ्गराजः । अलजः । आन्तरिक्षः । प्लवः । मद्गुः । मत्स्यः । ते । नदीपतये । द्यावापृथिवीयः । कूर्मः ।