व॒र्षाभि॑रृ॒तुना॑ऽऽदि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः । वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः
varṣā́bhir ṛtúnā''dityā́ stomé saptadaśé stutā́ḥ | vairūpéṇa viśáujasā havír índre váyo dadhúḥ
Dengan musim Hujan sebagai musimnya, para dewa—para Āditya—dipuji dalam Stoma tujuh belas; dengan nyanyian Vairūpa, dengan daya yang menyeluruh, mereka meletakkan persembahan—daya hidup—ke dalam Indra.
व॒र्षाभिः॑ । ऋ॒तुना॑ । आ॒दि॒त्याः । स्तोमे॑ । सप्त-द॒शे । स्तु॒ताः । वै॒रू॒पेण॑ । वि॒शौज॑सा । ह॒विः । इन्द्रे॑ । वयः॑ । दधुः