समु॒द्रादू॒र्मिर्मधु॑माँ॒२ उदा॑र॒दुपा॒ᳪशुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑:
samudrā́d ū́rmir mádhumān úd ārad upā́ṃśunā sáma amr̥tatvám ānaṭ | ghr̄tásya nā́ma gúhyaṃ yád ásti jihvā́ devā́nām amr̥tásya nā́bhiḥ
Dari lautan terbit gelombang bermadu; dengan ucapan perlahan (upāṃśu) ia mencapai keabadian. Nama rahsia ghee—hakikatnya yang sebenar—ialah lidah para dewa, pusat (pusar) bagi yang abadi.
समु॒द्रात् । ऊ॒र्मिः । मधु॑-मान् । उद् । आ॒र॒त् । उपा॒ᳪशुना॑ । सम् । अ॒मृ॒त॒त्वम् । आ॒न॒ट् । घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभि॑ः