मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वाऽनु॑ दे॒वा म॑दन्तु
mármāṇi te vármaṇā chādayāmi sómas tvā rājā́ ’mṛ́tenā́nuvastām | urór varī́yo váruṇas te kṛṇotu jáyantaṃ tvā́ ’nu devā́ madantu
Bahagian-bahagian hayatmu yang penting aku lindungi dengan zirah; semoga Soma Sang Raja menyelubungimu dengan keabadian. Semoga Varuṇa menjadikan bagimu ruang yang lebih luas, lebih lapang; dan, sebagai pemenang, semoga para dewa bersukacita padamu.
मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अनुवस्ताम् । उरुः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ।