इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑: स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चै॒ता मे॑ अग्न॒ इष्ट॑का धे॒नव॑: सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के
imā́ me agne íṣṭakā dhenávaḥ sántv ékā ca dáśa ca dáśa ca śatáṃ ca śatáṃ ca sahásraṃ ca sahásraṃ cāyútaṃ cāyútaṃ ca niyútaṃ ca niyútaṃ ca prayútaṃ cā́rbudaṃ ca nyàrbudaṃ samudráś ca mádhyaṃ cā́ntaś ca parā́rdhaś cāitā́ me agne íṣṭakā dhenávaḥ santu amútrā́muṣmiṃl lókē
Wahai Agni, biarlah bata-bata milikku ini menjadi lembu-lembu perah: satu dan sepuluh, dan sepuluh dan seratus, dan seratus dan seribu, dan seribu dan ayuta (sepuluh ribu), dan ayuta dan niyuta (seratus ribu), dan niyuta dan prayuta (sejuta), dan arbuda (sepuluh juta) dan nyarbuda (seratus juta); (hingga) samudra, pertengahan, akhir, dan parārdha (yang melampaui setengah). Biarlah bata-bata milikku ini, wahai Agni, menjadi lembu-lembu perah di sana, di alam itu.
इमाः । मे । अग्ने । इष्टकाः । धेनवः । सन्तु । एका । च । दश । च । दश । च । शतम् । च । शतम् । च । सहस्रम् । च । सहस्रम् । च । अयुतम् । च । अयुतम् । च । नियुतम् । च । नियुतम् । च । प्रयुतम् । च । अर्बुदम् । च । न्यर्बुदम् । समुद्रः । च । मध्यम् । च । अन्तः । च । परार्धः । च । एताः । मे । अग्ने । इष्टकाः । धेनवः । सन्तु । अमुत्र । अमुष्मिन् । लोके