मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे
mā́ nas tóke tánaye mā́ na ā́yuṣi mā́ no góṣu mā́ no áśveṣu rīriṣaḥ | mā́ no vīrā́n rudra bhā́mino vadhīr havíṣmantaḥ sádám ít tvā havāmahe
Janganlah Engkau mencederai kami pada zuriat kami, pada anak-anak kami; jangan pada umur kami; jangan pada lembu-lembu kami; jangan pada kuda-kuda kami. Janganlah Engkau membunuh para wira kami, wahai Rudra yang garang; kami, yang membawa persembahan, sentiasa menyeru-Mu.
मा । नः । स्तोके । तनये । मा । नः । आयुषि । मा । नः । गोषु । मा । नः । अश्वेषु । रीरिषः । मा । नः । वीरान् । रुद्र । भामिनः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे