अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रो॒तश्चास॑मरथश्च सेनानीग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा: प्रहे॑ति॒स्तेभ्यो॒ नमो अ॑स्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
ayaṁ paścād viśvavyacās tasya rathaprotaś cāsamarathaś ca senānīgrāmaṇyau | pramlocantī cānumlocantī cāpsarasau vyāghrā hetiḥ sarpāḥ prahetiḥ tebhyo namo astu te no ’vantu te no mr̥ḍayantu te yaṁ dviṣmo yaś ca no dveṣṭi tameṣāṁ jambhe dadhmaḥ
Ini, di belakang (barat), ialah Viśvavyacās, Yang Meliputi Segala; miliknya Rathaprota dan Asamaratha, dua pemimpin—panglima dan ketua kaum. Pramlocantī dan Anumlocantī ialah dua Apsaras; harimau ialah ternakan; Senjata ialah miliknya—ular-ular dan Senjata yang Dilontarkan. Kepada mereka sembah hormat: semoga mereka melindungi kami, semoga mereka mengasihani kami; dia yang kami benci dan sesiapa yang membenci kami—dia kami letakkan dalam rahang mereka.
अ॒यम् । प॒श्चात् । वि॒श्व-व्य॑चाः । तस्य॑ । रथ-प्रो॒तः । च । अ-स॑म-रथः । च । सेनानी-ग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती । च । अनु॒म्लोच॑न्ती । च । अ॒प्स॒रसौ॑ । व्या॒घ्राः । हे॒तिः । स॒र्पाः । प्र-हे॑तिः । तेभ्यः॑ । नमः॑ । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्वि॒ष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे॑ । दध्मः