Mundaka
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥५॥
सत्येन । लभ्यः । तपसा । हि । एषः । आत्मा । सम्यक्-ज्ञानेन । ब्रह्मचर्येण । नित्यम् ।
अन्तः-शरीरे । ज्योतिः-मयः । हि । शुभ्रः । यम् । पश्यन्ति । यतयः । क्षीण-दोषाः ॥५॥
satyena labhyas tapasā hy eṣa ātmā samyag-jñānena brahmacaryeṇa nityam |
antaḥ-śarīre jyotir-mayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇa-doṣāḥ ||5||
सत्य, तप, सम्यक् ज्ञान आणि नित्य ब्रह्मचर्य यांद्वारे हा आत्मा प्राप्त होतो. शरीराच्या अंतःकरणात तो ज्योतिर्मय व निर्मळ आहे; क्षीणदोष यती त्याचे दर्शन घेतात॥५॥
This Self is indeed attained by truth, by austerity, by right knowledge, and by constant brahmacarya. Within the body, it is luminous and pure; it is seen by the striving ascetics whose दोष (faults) have been exhausted.