Katharudra
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् ।
सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥
असत्यस्मिन् परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥
तस्मात् सर्वात्मना चित्ते भासमानो ह्यसौ नरः ।
आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥
तदेवाभयम् अत्यन्तकल्याणं परमामृतम् ।
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥
अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ।
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥
निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते ।
यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥
निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥
यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ॥
सारम् एव । रसम् । लब्ध्वा । साक्षात् । देही । सनातनम् ।
सुखी । भवति । सर्वत्र । अन्यथा । सुखता । कुतः ॥
असति । अस्मिन् । पर-आनन्दे । स्व-आत्म-भूते । अखिल-आत्मनाम् ।
कः । जीवति । नरः । जन्तुः । कः । वा । नित्यम् । विचेष्टते ॥
तस्मात् । सर्व-आत्मना । चित्ते । भासमानः । हि । असौ । नरः ।
आनन्दयति । दुःख-आढ्यम् । जीव-आत्मानम् । सदा । जनः ॥
यदा । हि । एव । एषः । एतस्मिन् । अदृश्यत्व-आदि-लक्षणे ।
निर्भेदम् । परम् । अद्वैतम् । विन्दते । च । महा-यतिः ॥
तत् । एव । अभयम् । अत्यन्त-कल्याणम् । परम् । अमृतम् ।
सत्-रूपम् । परम् । ब्रह्म । त्रि-परिच्छेद-वर्जितम् ॥
यदा । हि । एव । एषः । एतस्मिन् । अल्पम् । अपि । अन्तरम् । नरः ।
विजानाति । तदा । तस्य । भयम् । स्यात् । न । अत्र । संशयः ॥
अस्य । एव । आनन्द-कोशेन । स्तम्ब-अन्ताः । विष्णु-पूर्वकाः ।
भवन्ति । सुखिनः । नित्यम् । तारतम्य-क्रमेण । तु ॥
तत्-तत्-पद-विरक्तस्य । श्रोत्रियस्य । प्रसादिनः ।
स्वरूप-भूतः । आनन्दः । स्वयम् । भाति । परे । यथा ॥
निमित्तम् । किञ्चित् । आश्रित्य । खलु । शब्दः । प्रवर्तते ।
यतः । वाचः । निवर्तन्ते । निमित्तानाम् । अभवतः ॥
निर्विशेषे । पर-आनन्दे । कथम् । शब्दः । प्रवर्तते ।
तस्मात् । एतत् । मनः । सूक्ष्मम् । व्यावृतम् । सर्व-गोचरम् ॥
यस्मात् । श्रोत्र-त्वक्-अक्षि-आदि । खादि-कर्म-इन्द्रियाणि । च ॥
sāram eva rasaṃ labdhvā sākṣād dehī sanātanam |
sukhī bhavati sarvatra anyathā sukhatā kutaḥ ||
asaty asmin parānande svātmabhūte’khilātmanām |
ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate ||
tasmāt sarvātmanā citte bhāsamāno hy asau naraḥ |
ānandayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ ||
yadā hy evaiṣa etasmin adṛśyatvādilakṣaṇe |
nirbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ ||
tad evābhayam atyantakalyāṇaṃ paramāmṛtam |
sadrūpaṃ paramaṃ brahma triparicchedavarjitam ||
yadā hy evaiṣa etasmin alpam apy antaraṃ naraḥ |
vijānāti tadā tasya bhayaṃ syān nātra saṃśayaḥ ||
asyaivānandakośena stambhāntā viṣṇupūrvakāḥ |
bhavanti sukhino nityaṃ tāratamyakrameṇa tu ||
tattatpadaviraktasya śrotriyasya prasādinaḥ |
svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā ||
nimittaṃ kiñcid āśritya khalu śabdaḥ pravartate |
yato vāco nivartante nimittānām abhavataḥ ||
nirviśeṣe parānande kathaṃ śabdaḥ pravartate |
tasmād etan manaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram ||
yasmāc chrotratvagakṣyādikhādikarmendriyāṇi ca ||
साररूप ‘रस’—सनातन देही आत्मा—साक्षात् जाणल्यावर साधक सर्वत्र सुखी होतो; अन्यथा सुखता कुठून? जो परमानंद विषय-रूपाने अगोचर असून सर्व आत्म्यांचा स्वात्मा आहे—त्यात कोण मनुष्य वा प्राणी जगेल, किंवा कोण नित्य चेष्टा करील? म्हणून सर्वात्मभावाने चित्तात प्रकाशणारा तो पुरुष दुःखाने भरलेल्या जीवात्म्याला सदैव आनंदित करतो. जेव्हा हा महायती अदृश्यत्वादी लक्षणयुक्त त्या तत्त्वात निर्भेद परमाद्वैत प्राप्त करतो, तेच परम अभय, अत्यंत कल्याण व परम अमृत आहे—सत्स्वरूप परब्रह्म, त्रिविध परिछेदरहित. पण जर कोणी त्यात अल्पही भेद जाणला, तर निःसंशय त्याला भय उत्पन्न होते. त्याच्याच आनंदकोशामुळे स्थावरापासून विष्णु आदि पर्यंत सर्व प्राणी तारतम्यक्रमाने नित्य सुखी होतात. पद-प्रतिष्ठा इत्यादींविषयी विरक्त, श्रोत्रिय व प्रसन्नचित्त याच्या ठायी स्वरूपभूत आनंद परात्परात स्वयं प्रकाशित होतो. वाणी काही ना काही निमित्ताचा आधार घेऊनच प्रवर्तते; निमित्त नसता वाणी परत फिरते. निर्विशेष परमानंदात शब्द कसा चालेल? म्हणून हे मन सूक्ष्म असून सर्व विषयांपासून निवृत्त आहे; ज्यातून श्रोत्र, त्वचा, नेत्र इत्यादी ज्ञानेंद्रिये व कर्मेंद्रियेही (उद्भवतात/प्रवर्ततात).
Same passage as Katharudra.34 (as supplied): it asserts that the direct attainment of the eternal Self as the supreme bliss is the sole ground of happiness; non-dual realization yields fearlessness and immortality; perceiving any difference in Brahman produces fear; bliss is reflected in graded degrees across beings; and speech and mind withdraw in the attributeless Absolute, implying the subtle inward-turning of mind and the senses.