Kaivalya
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ।
यः शतरुद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति स कृत्याकृत्यात्पूतो भवति ।
तस्मादविमुक्तमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥२४–२५॥
एवम् । विदित्वा । परम-आत्म-रूपम् । गुहा-आशयम् । निष्कलम् । अद्वितीयम् ।
समस्त-साक्षिम् । सत्-असत्-विहीनम् । प्रयाति । शुद्धम् । परम-आत्म-रूपम् ।
यः । शत-रुद्रियम् । अधीते । सः । अग्नि-पूतः । भवति । सुरा-पानात् । पूतः । भवति । सः । ब्रह्म-हत्यायाः । पूतः । भवति । सः । सुवर्ण-स्तेयात् । पूतः । भवति । सः । कृत्या-अकृत्यात् । पूतः । भवति ।
तस्मात् । अविमुक्तम् । आश्रितः । भवति । अति-आश्रमी । सर्वदा । सकृत्-वा । जपेत् ।
evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalam advitīyam |
samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam |
yaḥ śatarudriyam adhīte so’gnipūto bhavati surāpānāt pūto bhavati sa brahmahatyāyāḥ pūto bhavati sa suvarṇasteyāt pūto bhavati sa kṛtyākṛtyāt pūto bhavati |
tasmād avimuktam āśrito bhavaty atyāśramī sarvadā sakṛd vā japet ||24–25||
अशा प्रकारे हृदय-गुहेत वसणारे, निष्कल, अद्वितीय, सर्वांचा साक्षी आणि सत्-असत् भेदरहित परमात्मस्वरूप जाणून साधक शुद्ध परमात्मरूपास प्राप्त होतो. जो शतरुद्रीयाचे अध्ययन करतो तो अग्निद्वारे पवित्र होतो; मद्यपानाच्या दोषापासून शुद्ध होतो; ब्राह्मणहत्येच्या पापापासून शुद्ध होतो; सुवर्णचोरीपासून शुद्ध होतो; तसेच निषिद्ध कर्म व कर्तव्य-त्याग यांच्या दोषांपासूनही शुद्ध होतो. म्हणून अविमुक्ताचा आश्रय घेऊन, सामान्य आश्रमधर्मांपलीकडे जाऊन, हे सर्वदा किंवा किमान एकदा तरी जपावे.
Thus, having known the nature of the Supreme Self—dwelling in the cave (of the heart), partless, non-dual, the witness of all, devoid of (the categories of) being and non-being—one attains the pure nature of the Supreme Self. He who studies the Śatarudriya becomes purified by fire; he becomes purified from the drinking of intoxicants; he becomes purified from the killing of a brāhmaṇa; he becomes purified from the theft of gold; he becomes purified from (sins of) forbidden acts and omissions. Therefore, taking refuge in Avimukta, transcending the (ordinary) āśramas, one should recite (it) always, or even once.