Kaivalya
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥
अ-पाणि-पादः । अहम् । अ-चिन्त्य-शक्तिः । पश्यामि । अ-चक्षुः । सः । शृणोमि । अ-कर्णः ।
अहम् । विजानामि । विविक्त-रूपः । न । च । अस्ति । वेत्ता । मम । चित् । सदा । अहम् ।
वेदैः । अनेकैः । अहम् । एव । वेद्यः । वेदान्त-कृत् । वेद-वित् । एव । च । अहम् ।
apāṇipādo ’ham acintyaśaktiḥ paśyāmy acakṣuḥ sa śṛṇomy akarṇaḥ |
ahaṃ vijānāmi viviktarūpo na cāsti vettā mama cit sadā ’ham ||
vedair anekair aham eva vedyo vedāntakṛd vedavideva cāham ||
मी हात-पायांविना आहे, अचिंत्य शक्तियुक्त आहे; मी डोळ्यांविना पाहतो आणि कानांविना ऐकतो. मी विविक्तस्वरूपाने जाणतो; माझा जाणणारा कोणी नाही—मी सदा चैतन्य आहे. अनेक वेदांनी मीच जाणण्याजोगा आहे; मी वेदान्ताचा कर्ता आणि मीच वेदांचा ज्ञाता आहे.
Without hands and feet am I, of inconceivable power; I see without eyes, and I hear without ears. I know—of distinct (separate) nature; and there is no knower of me. I am ever consciousness. By many Vedas I alone am to be known; I am the maker of Vedānta, and I am indeed the knower of the Veda.