Kaivalya
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥१७॥
जाग्रत्-स्वप्न-सुषुप्ति-आदि-प्रपञ्चम् । यत् । प्रकाशते । तत् । ब्रह्म । अहम् । इति । ज्ञात्वा । सर्व-बन्धैः । प्रमुच्यते ॥
jāgrat-svapna-suṣupty-ādi-prapañcaṃ yat prakāśate | tad brahmāham iti jñātvā sarva-bandhaiḥ pramucyate ||17||
ज्याच्या प्रकाशाने जागृत्, स्वप्न, सुषुप्ती इत्यादी प्रपंच प्रकाशित होतो—‘मी तोच ब्रह्म आहे’ असे जाणून सर्व बंधनांतून मुक्त होतो।
That by which the manifold (world) of waking, dream, deep sleep, and so on is illumined—having known ‘I am that Brahman,’ one is released from all bonds.