Brahmavidya
ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान्। बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः॥२५॥
ईश्वरत्वम् । अवाप्नोति । सदा-अभ्यास-रतः । पुमान् । बहवः । न । एक-मार्गेण । प्राप्ताः । नित्यत्वम् । आगताः ॥
īśvaratvam avāpnoti sadābhyāsarataḥ pumān | bahavo naikamārgeṇa prāptā nityatvam āgatāḥ ||25||
जो पुरुष सदैव अभ्यासात रत असतो, तो ईश्वरत्व प्राप्त करतो. अनेकांनी विविध मार्गांनी व साधनांनी नित्यत्व—अमरता—प्राप्त केली आहे.
A man devoted to constant practice attains lordship (īśvaratva). Many have reached immortality (nityatva) by more than one path.